Thursday, May 13, 2021

।।#वैशाख_अक्षय_तृतीया।।

 


मां रेणुका के स्तोत्र पाठ के उपरांत भगवान् परशुरामजी के ध्यान में मन लीन हो गया।

इसी अक्षय तृतीया को ही तो भगवान् परशुराम प्रकट हुए थे।

जो अक्षय रूप में आज भी विद्यमान हैं।

उनकी पूजा स्थली महेंद्र पर्वत का ध्यान आते ही विराट तेज पुंज विलसित हो गया।

दंडवत प्रणाम के उपरांत मैने प्रश्न किया भगवन्! वैशाख मास का महत्व बताएं।

तो भगवान् ने पुरातन इतिहास बताया कि वेद के वैशाख मास को #माधव मास कहते हैं। यह साक्षात् माधवस्वरूप है।

इसमें जप,स्नान होमादि का अनन्त फल है---


#सर्व्वेषामेव मासानां वैशाखः प्रवरः स्मृतः ।  तत्र स्नानं जपो होमः श्राद्धं दानादि यत् कृतम् । तत् सर्व्वं भूपतिश्रेष्ठ सत्यमक्षयमुच्यते ॥ एकतः सर्व्वतीर्थानि सर्व्वे यज्ञाः सदक्षिणाः । भूप वैशाखमासाद्य कोट्यंशेनापि नो समाः ॥ मेरुतुल्यानि हेमानि सर्व्वदानानि चैकतः ।


असंख्य पाप भी माधव पूजा से दूर हो जाते हैं---


 एकतः सर्व्वदा भूप माधवो माधवप्रियः ॥ असंख्यानि च पापानि वहुजन्मार्ज्जितानि च । निमेषार्द्धेन राजेन्द्र विलयं यान्ति माधवे ॥


यह मास में पितृप्रसन्नता के लिए भी विशेष फलदायी है,क्योंकि पितृस्वरूपी जनार्दन भी मैं ही हूँ---

 वैशाखमागतं दृष्ट्वा पितॄणामुत्सवो भवेत् । पुत्त्रो नियममाचर्य्य अस्मभ्यमुद्धरिष्यति ॥


वैशाख मास को आता देखकर पाप कांपने लगते हैं कि अब हमारा सफाया हो जाएगा-


आगतं माधवं दृष्ट्वा कम्पन्ते पापसञ्चयाः । अस्माकं नाशकालोऽयं भूपते ध्रुवमागतः ॥ वैशाखं परमं मासं माधवस्येति ह प्रियम् । नियमेन समाचर्य्य न भूयो जायते नरः ॥ मनसा संस्मरेद्यस्तु नियमं माधवोद्भवम् । पूयते पातकैः सर्व्वैः शक्रेण सह मोदते ॥ वचसा यो वदेद्भूप वैशाखं माधवप्रियम् । अहं समाचरिष्यामि स गच्छेद्ब्रह्मणः पुरम् ॥ यः समाचरते भूप नियमेन तु माधवम् । स विष्णो रूपमासाद्य विष्णुना सह मोदते ॥ नियनेन समाचर्य्य एकाहमपि भूपते । पितरस्तारितास्तेन यास्यन्ति परमां गतिम् ॥ तस्मिन् स्नात्वा विशुद्धात्मा दम्भमात्सर्य्यवर्ज्जितः । ईप्सितान् लभते कामान् श्रीविष्णोर्दयितो भवेत् ॥ ब्रह्मघ्नो वा कृतघ्नो वा मित्रघ्नस्त्रीविघातकः । नियमेन नयेन्मासं स मुक्तः सर्व्वपातकात्


सांख्य और योग क्या करेगा यदि मुक्ति चाहिए तो वैशाख मास में माधव का पूजन करें--


#किं करिष्यति सांख्येन योगेन नरनायक । मुक्तिमिच्छसि चेद्राजन् माधवं माधवेऽर्च्चय ॥


संन्यासी, विधवा,वानप्रस्थी को तो वैशाख मास में कोई न कोई शुभ नियम अवश्य लेना चाहिए अन्यथा नरकवास हो सकता है--


#यतिश्च विधवा चैव विशेषेण वनाश्रमी । वैशाखे नरकं याति ह्यकृत्वा नियमं नरः ॥


इस मास में अणुमात्र दान भी करोडों गुना बढ़ जाता है--


#अणुमात्रन्तु यत्किञ्चिद्यो ददाति च माधवे । काले वा यदि वाकाले कोटिकोटिगुणं भवेत् ॥


इस मास में विष्णु पूजा करने वाले को कोई भय नहीं रहता है--

#न पीडयन्ति ग्रहराक्षसा गणा यक्षाः पिशाचोरगभूतदानवाः । यो माधवे मासि नरेन्द्रवर्य्य ध्रुवं मुरारेर्व्रतमाचरन्ति ह ॥ “


वैशाख शुक्ल तृतीया को सतयुग का आरम्भ हुआ था इसलिए यह तिथि युगादि है--


#वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् ।


अतः इस तिथि में विष्णु याग,स्नान आदि 

यवादि दान , शंकर पूजा,गंगादि स्नान, विष्णु जी को गंधादि से लेपित अवश्य करें--

#तस्यां कार्य्यो यवैर्होमो यवैर्विष्णुं समर्च्चयेत् । यवान् दद्यात् द्बिजातिभ्यः प्रयतः प्राशयेद्यवान् ॥ पूजयेच्छङ्करं गङ्गां कैलासञ्च हिमालयम् । भगीरथञ्च नृपतिं सागराणां सुखावहम् ॥ “  * ॥ स्कान्दे । “ वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता । तत्र मां लेपयेद्गन्धैर्लेपनैरतिशोभनैः ॥

या शुक्ला नरशार्दूल वैशाखे मासि वै तिथिः तृतीया साक्षया ख्याता गीर्व्वाणैरपि वन्दिता ॥ योऽस्यां ददाति करकान् वारिवाजसमन्वितान् । स याति पुरुषो वीर लोकान् वै हेममालिनः ॥


दुष्ट क्षत्रियों के संहारक और  दशरथ जनकादि सद् क्षत्रियों के पालक भगवान् परशुराम जी को कोटि कोटि प्रणाम।


कृष्ण चंद्र शास्त्री

१३.५.२१

No comments:

Post a Comment