Monday, July 9, 2012

Geography & History in Indian Rituals

--भारतीयाः कन्यादानसमये महासङ्कल्पः---
आदौ सङ्कल्पं कुर्वन्ति।अस्मिन् सङ्कल्पे भूगोळस्य स्थितिः वर्ण्यते।पश्यन्त्वत्र-------
महासङ्कल्पः---"अनन्तवीर्यस्य श्रीमदादिनारायणस्य अचिन्त्य अपरिमितशक्त्या भ्रियमाणस्य महाजलौघमध्ये परिभ्रममाणानां अनेककोटि ब्रह्माण्डानां एकतमे,अव्यक्त प्रकृति
महदहङ्कार आकाश वायु वह्नि जल पृथिव्यावरणैः सप्तभिरावृते अस्मिन् महति ब्रह्माण्डकरण्ड
मण्डले,आधारशक्ति श्री वराहकूर्मानन्ताद्यष्ट दिग्गजोपरि प्रतिष्ठितस्य पाताळादि सप्तलोकस्य
उपरितले,प्रतिलोमेन सत्यादि लोकषट्कस्य अधोभागे महानाळायमान फणिराजिराजशेषस्य
सहस्रफणामण्डलमण्डिते,दिग्दन्ति शुण्डादण्डोत्तम्भिते,लोकालोकाचल वलयिते लवणेक्षु सुरा
सर्पिर्दधि क्षीरोदकार्णवैः परिवृते,जम्बू,प्लक्ष,कुश,क्रौञ्च,शाक,शाल्मलि,पुष्कर नामक सप्तद्वीपै
रावृते,इन्द्रद्वीप कशेरु ताम्र,गभस्ति,नाग,सौम्य,गन्धर्व,चारण,भारताख्य नवखण्डमण्डिते,महा
सरोरुहाकारे,पञ्चाशत्कोटि विस्तीर्ण भूमण्डले,लक्षयोजन विस्तीर्ण जम्बूद्वीपे,सुमेरु,निषध,
हेमकूट,हिमाचलानां हरिवर्ष किम्पुरुष वर्षयोश्च दक्षिणे,सेतुबन्ध,मलयाचलयोः उत्तरे,सहस्रयोजन
विस्तृते भरतवर्षे,भरतखण्डे,प्रजापतिक्षेत्रे, दण्दकारण्ये,कर्मभूमौ,अयोध्या,काशी,कुरुक्षेत्र,गया,
प्रयाग,काञ्ची,श्रीरङ्ग,श्री वेङ्कटाचलादि पुण्यक्षेत्रैः,गङ्गा,यमुना,सरयू,नर्मदादि पुण्यनदीभिश्च
विराजिते,समभूमध्यरेखायाः पूर्वदिग्भागे,श्रीशैलस्य ईशान्यप्रदेशे,कृष्णागोदावर्योर्मध्यदेशे,
समस्त देवताब्राह्मण सन्निधौ,अस्मिन् कल्याणमण्टपे परब्रह्मणा नियुक्तस्य सकलजगत्स्रष्टुः
परार्धद्वयजीविनः कारणब्रह्मणः पञ्चाशत्तमवत्सरे,प्रथममासे प्रथमपक्षे प्रथमदिवसे अहनि द्वितीये यामे तृतीये मुहूर्ते,श्वेतवराहकल्पे,स्वायम्भुव स्वारोचिषादि मनुषु षट्सु व्यतीतेषु सप्तमे
वैवस्वतमन्वन्तरे,बौद्धावतारे,अष्टाविंशतितमे महायुगे कृतादिषु त्रिषु युगेषु यातेषु कलियुगे प्रथम
पादे,शालिवाहनशके,प्रभवादि षष्टि संवत्सराणां मध्ये,वर्तमान व्यावहारिक चान्द्रमानेन अमुक
संवत्सरे,अमुकायने,अमुकऋतौ,अमुकमासे,अमुकपक्षे,अमुकतिथौ,अमुकवारे,इदानीं अनादि
अविद्या वासनया संसारचक्रे अस्मिन् महति,नानायोनिषु जनित्वा,केनापि भाग्यविशेषेण इदानीं
मनुष्यजन्मविशेषं प्राप्तवतो मम जन्मप्रभृति एतत् क्षणपर्यन्तं मनोवाक्कायकर्मभिः ज्ञानतोऽज्ञा
नतः कृतानां महापातक उपपातकादीनां नवविधानां पापानां सद्यः अपनोदनद्वारा श्री परमेश्वर
प्रीत्यर्थं गङ्गावालुकाभिः सप्तर्षिमण्डलपर्यन्तं कृतराशेः वर्षसहस्रावसाने एकैकवालुकापकर्ष
क्रमेण सर्वराश्यपकर्ष सम्मितकाले ब्रह्मलोके निवाससिद्ध्यर्थं तिलैः सूर्यमण्डलपर्यन्तं कृतराशेः
वर्षसहस्रावसाने एकैक तिलापकर्षक्रमेण ब्रह्मलोकनिवाससिद्ध्यर्थं,एवं यवैः माषैश्च कृत्वा,त्रिगुणीकृत अग्निष्टोमादि क्रतुपुण्यफलावाप्त्यर्थं दश पूर्वेषां,दशापरेषां मद्वंश्यानां पितॄणां
नरकादुत्तीर्य शाश्वतब्रह्मलोकनिवाससिद्ध्यर्थं स्वगृह्योक्तप्रकारेण सालङ्कृत सहिरण्योदक कन्या
महादानं करिष्ये।"इति सङ्कल्पः।
--- इरागावारापू  नारासिम्हाचार्य 
 
 

No comments:

Post a Comment